¡Sorpréndeme!

अष्टलक्ष्मी स्तुति | Ashtalakshmi Stuti | सुख-समृद्धि, संतान व विजय प्राप्ति हेतु नित्य सुनें

2025-04-18 9 Dailymotion

अष्टलक्ष्मी स्तुति | Ashtalakshmi Stuti | सुख-समृद्धि, संतान व विजय प्राप्ति हेतु नित्य सुनें @Mere Krishna

#ashtalakshmi #mahalakshmi #mahalaxmi #lakshmi #lakshmidevi #maalaxmi #अष्टलक्ष्मीमंत्र #अष्टलक्ष्मी #महालक्ष्मी

श्रीअष्टलक्ष्मीस्तुतिः

रथमध्यामश्वपूर्वां गजनादप्रबोधिनीम् ।
साम्राज्यदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् ॥ १॥

धनमग्निर्धनं वायुः धनं भूतानि पञ्च च ।
प्रभूतैश्वर्यसन्धात्रीं धनलक्ष्मीं नमाम्यहम् ॥ २॥

पृथ्वीगर्भसमुद्भिन्ननानाव्रीहिस्वरुपिणीम् ।
पशुसम्पत्स्वरूपां च धान्यलक्ष्मीं नमाम्यहम् ॥ ३॥

न मात्सर्यं न च क्रोधो न भीतिर्न च भेदधीः ।
यद्भक्तानां विनीतानां धैर्यलक्ष्मीं नमाम्यहम् ॥ ४॥

पुत्रपौत्रस्वरूपेण पशुभृत्यात्मना स्वयम् ।
सम्भवन्ती च सन्तानलक्ष्मीं देवीं नमाम्यहम् ॥ ५॥

नानाविज्ञानसन्धात्रीं बुद्धिशुद्धिप्रदायिनीम् ।
अमृतत्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् ॥ ६॥

नित्यसौभाग्यसौशील्यं वरलक्ष्मीं ददाति या ।
प्रसन्नां स्त्रैणसुलभां आदिलक्ष्मीं नमाम्यहम् ॥ ७॥

सर्वशक्ति स्वरूपां च सर्वसिद्धिप्रदायिनीम् ।
सर्वेश्वरीं श्री विजयलक्ष्मीं देवीं नमाम्यहम् ॥ ८॥

अष्टलक्ष्मींसमाहारस्वरुपां तां हरिप्रियाम् ।
मोक्षलक्ष्मीं महालक्ष्मीं सर्वलक्ष्मीं नमाम्यहम् ॥ ९॥

दारिद्र्यदुःखहरणं समृद्धिमपि सम्पदाम् ।
सच्चिदानन्दपूर्णत्वं अष्टलक्ष्मीस्तुतेर्भवेत् ॥ १०॥